अनिदिताम् अङ्गानां हलन्तानाम् उपधायाः नकारस्य लोपो भवति क्ङिति प्रत्यये परतः। स्रस्तः। ध्वस्तः। स्रस्यते। ध्वस्यते। सनीस्रस्यते। दनीध्वस्यते। अनिदिताम् इति किम्? नन्द्यते। नानन्द्यते। हलः इति किम्? नीयते। नेनीयते। उपधायाः इति किम्? नह्यते। नानह्यते। क्ङिति इति किम्? स्रंसिता। ध्वंसिता। अनिदितां नलोपे लङ्गिकम्प्योरुपतापशरीरविकारयोरुपसङ्ख्यानं कर्तव्यम्। विलगितः। विकपितः। उपतापशरीरविकारयोः इति किम्? विलङ्गितः। विकम्पितः। रञ्जेर्णौ मृगरमण उपसङ्ख्यानं कर्तव्यम्। रजयति मृगान्। जनीजृ̄ष्क्नसुरञ्जो ऽमन्ताश्च इति मित्त्वादुपधाह्रस्वत्वम्। मृगरमण इति किम्? रञ्जयति वस्त्राणि। घिनुणि च रञ्जेरुपसङ्ख्यानं कर्तव्यम्। रागी। त्यजरजभज इति निपातनाद् वा सिद्धम्। रजकरजनरजःसूपसङ्ख्यानं कर्तव्यम्। रजकः। रजनम्। रजः।
हलन्तानामनिदितामङ्गानामुपधाया नस्य लोपः किति ङिति। नुम्। संयोगान्तस्य लोपः। नस्य कुत्वेन ङः। प्राङ्। प्राञ्चौ। प्राञ्चः॥
इद्? इद्? येषां त इदितः, न इदितोऽनिदित इति षष्ठीबहुवचनस्य स्थाने सुब्व्यत्येनैकवचनम्(), तच्चानिदितां विशेषणम्(), विशेषणेन च तदन्तविधिर्भवतीत्यत आह--"हलान्तानाम्()" इत्यादि। "उपधाया नकारस्य" इति। उपधाया इत्येतन्नकारस्य विशेषणम्()। "रुआस्तः, ध्वलस्तः" इति। "रुआन्सु ध्वन्सु अधः ["अवन्नंसने"--धा।पा] पतने (धा।प।७५४,७५५) निष्ठा। "रुआस्यते, ध्वस्यते" इति। भावे कर्मणि वा लकार। "सनीरुआस्यते दनीध्वस्यते" इति। यङन्ते एते। "नीग्वञ्चु"
७।४।८४ इत्यादिनाभ्यासस्य नीगागमः।
"नन्द्यते" इति। "टु णदि समृद्धौ" (धा।पा।६७) ["टु नदि"--धा।पा।] "नानन्द्यते" इति। यङन्तम्()। "दीर्घोऽकितः"
७।४।८३ इत्यभ्यासस्य दीर्घः। "नेनीयते" इति। नयतेः "गणो यङ्लुकोः"
७।४।८२ इति गुणोऽभ्यासस्य। "नह्रते" इति। "णह बन्धने" (धा।पा।११६६)।
"लङ्गिकम्प्योः" इत्यादि। लङ्गिकम्प्योरिदित्त्वान्नलोपो न प्राप्नोति, अतस्तयोरुपतापशरीरविकारयोरुपसंख्यानं कर्तव्यम्()। उपसंख्यानाम्()=प्रतिपादनम्()। उत्तरत्राप्युपसंख्यानशब्दस्य प्रतिपादनमर्थः। प्रतिपादनन्तु कृतमेव। उपतापः=व्याधिः। शरीरविकारः=शरीरस्यान्यथात्वम्()। स पुनरिहोपतापादनयो गृह्रते, अन्यथा "उपताप" इत्येवं सिद्धे शरीरविकारग्रहणमनर्थकं स्यात्()। "विलगितः" इति। "अगि वगि लगि" गत्यार्थाः। (धा।पा।१४६,१४७,१४५)। "उपतापे विलङ्गितः" इत्येव प्रयोगो मा भूदित्येवमर्थं लङ्गर्ल्लोपो विधीयते, न तु रूपसिद्ध्यर्थम्(); "लगे सङ्गे" (धा।पा।७८६) इत्यस्य प्रकृत्यन्तरस्य तस्य सिद्धत्वात्()।
"रञ्जेर्णौ" इत्यादि। अक्ङिदर्थं वचनम्()। मृगरमणम्()=मृगक्रीडा। "रजयतिः मृगान्()" इति।
रममाणान्? मृगान्? प्रयुङ्क्ते इत्यर्थः।
"रजनरजकरजःसूपसंख्यानम्()" इति। अत्र भूयः प्रतिपादनं क्रियते। "घञि च भावकरणयोः"
६।४।२७ इत्यत्र चकारोऽनुक्तसमुच्चयार्थः, तेन रजकादिषु प्रतिपाद्येषु रञ्जेः ष्वुन्नादिप्रत्यये परतो नलोपो भवति। "रजकः" इति। "शिल्पिनि ष्वुन्()"
३।१।१४५। "रजनम्()" इति। ल्युट्। "रजः" इति। "सार्वधातुभ्योऽसुन्()" (द।उ।९।४९)["असुन्()"--द।#उ।] इत्यसुन्()।
"घिनुणि च" इत्यादि। "रागी" इति। सम्पृचान्वादिसूत्रेण
३।२।१४२ घिनुण्(), "चजो कु घिण्ण्यतोः"
७।३।५२ इति कुत्वम्()।
"त्यज रज भज" इति निपातनात्? सिद्धम्()" इति। यतोऽयमक्ङिति निमित्ते सम्पृचादिसूत्रे
३।२।१४२ रञ्जेरनुनासिकलोपं कृत्वा निर्देशं करोति, तज्ज्ञापयति--घिनुप्यति नलोपो भवतीति। ननु च "रञ्जेश्च" (६।४।
२६) इति लक्षणेनैव शपि नलोपोऽभिनिर्वृत्तः? न तदस्ति; यथैव "इन्धिभवतिभ्याञ्च"
१।२।६ इत्यागन्तुकेनेकारेणेन्धेर्निर्देशः, तथेहाप्यागन्तुकेनाकारेण, न तु शपा। न हि "इन्धिभवतिभ्याञ्च"
१।२।६ इत्यत्रेका निर्देशः, अन्यथा हि "अनिदिताम्()"
६।४।२४ इत्यनुनासिकलोपः स्यात्()॥
प्र-अन्च् इति स्थिते--अनिदिताम्। "अङ्गस्ये"त्यधिकृतं बहुवचनेन विपरिणम्यते। हल इति तद्विशेषणम्। तदन्तविधिः। "अनिदिता"मित्यपि तद्विशेषणम्। इत्=ह्यस्व इकारः, इत्ित्संक्षको येषां तानि इदिन्ति, न इदिन्ति, अनिदिन्ति, तेषामिति विग्रहः। अवयवषष्ठ()न्तमेततदुपधाया इत्यत्रान्वेति। "उपधाया" इत्यप्यवयवषष्ठ()न्तम्। तश्च "श्नान्न लोपः" इत्यतो नेत्यनुवृत्ते लुप्तषष्ठीके अन्वेति। क् च ङ् च क्ङौ, तौ इतौ यस्येति विग्रहः। तदाह--हलन्तानामित्यादिना। इति चकारात्पूर्वस्य नकारस्य लोपः। प्र अच् प्राच् इति स्थितम्। तस्मात्सुबुत्पत्तिः। सुटि विशेषमाह--उगिदचामिति नुमिति। सौ विशेषमाह--संयोगान्तस्य लोप इति। "हल्ङ्यादिना सुलोपे सती"ति शेषः। कुत्वेन ङकार इति। नासिकास्थानसाम्यादिति भावः। अनुस्वारपरसवर्णाविति। प्राच् औ इति स्थिते-अचः। अच इत्यन्चुधातोः "अनिदिता"मिति लुप्तनकारस्यानुस्वार। "अनुस्वारस्य यी"ति तस्य परसवर्णो ञकारः। नस्य श्चुत्वं तु न भवति, अनुस्वारं प्रति तस्याऽसिद्धत्वादित्यर्थः।
अनिदितिम्। इत् ह्यस्वेकार इत्संज्ञको येषां तानि इदिन्ति, न इदिन्ति अनिदिन्ति, तेषाम्--अनिदितम्। एतच्च अङ्गस्य विशेषणं, हल इत्यपि। तदाह---हलन्तामामनिदितामिति। उपधाया नस्येति। "श्नान्न लोपः"इति सूत्रान्नेति लुप्तषष्ठीकं पदमनुवर्तते, तच्चोपधाग्रहणेन विशेष्यत इथि भावः। अनिदितामिति किम्()। नन्द्यते। हलः किम्(), नीयत। उपधायाः किम्()। हन्यते।